Featured Post

अधरं मधुरं वदनं मधुरं भजन लिरिक्स

अधरं मधुरं वदनं मधुरं भजन लिरिक्स


अधरं मधुरं वदनं मधुरं भजन लिरिक्स
अधरं मधुरं वदनं मधुरं भजन लिरिक्स


अधुरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरौ ।
नृत्यं मधुरं संख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतिरखिलं मधुरम् ॥


गोपा मधुरा गावो मथुरा यष्टिर्मधुरा सृष्टिर्मथुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतिरखिलं मधुरम् ॥

टिप्पणियाँ